( १९७) अपस्किरः । ३ । ३ । ३० । अपात् किरतेः सस्सदकात् कर्तर्यात्मनेपदं स्यात् । अपस्किरते वृषभो हृष्टः। सस्सहनिर्देशः किम् ? अप किरति । अपेति किम्? उपस्किरति ।। ३० ।। उदश्चरः साऽऽज्यात् । ३ । ३ । १ । उत्पूर्वोच्चरेः सकर्मकात् कर्तर्यात्मनेपदं स्यात् । मार्गानु चरते । साऽऽप्यादिति किम् ? धूम उच्चरति ।। ३१ ।। समस्तृतीयया । ३ । ३ । ३२ ।। सम्पूर्वोच्चरेस्तृतीयान्तेन योगे कर्तर्यात्मनेपदं स्यात् । अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ।। ३२ ।। क्रीडोऽकूजने । ३ । ३ । ३३ । कूजनमव्यत्तः शब्दः ततोऽन्यार्थान् सर्वान् क्रीडतेः कर्तर्यात्मनेपदं स्यात् । संक्रीडते । सम इत्येव ? क्रीडति । अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥ । ३३ ॥ अन्वाङ्-परः । ३ । ३ । ३४ ।। एभ्यः परात् क्रीडते' कर्तर्यात्मनेपदं स्यात् । अनुक्री डते, आक्रीडते, परिक्रीडते ॥ ३४ ॥ शप उपलम्भने । ३ । ३ । ३५ । उपलम्भनं प्रकाशनं शपथो वा । तदर्थाच्छपतेः कर्ता- यत्मनेपदं स्यात् । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ॥ ३५ ॥ १ अषात् चतुष्पात्पक्षि " (३० ४-४-६५) सूत्रात् सप्रत्यय , तत्सहितात् किरतेरात्मनेपद स्यात् ।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/३२९
दिखावट