स्वोपज्ञलघुवृत्तिः (१७७) कोटरमिश्रक-सिभकपुरग-सारिकस्य वणे ।३।२।७६।। एषां कृतणत्वे वने उत्तरपदे संज्ञायां दीर्घः स्यात् । कटरावणम्, मिश्रकायणम् , सिध्रकावणम् पुरगावणम्, मारिकावणम् ॥ ७६ ॥ अद्धनादीनां गिरौ । ३ । २ । ७७ ।। एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागि रि, कुक्कुटागिरिः ॥ ७७ ॥ अनजिरादिबहुस्वरशरादीनां मतौ । ३ । २ । ७८ । अजिरादिवर्जबहुस्वराणां शरादीनां च मतौ प्रत्यये नानि दीर्घ स्यात् । उदुम्बरावती, शरावती, वंशावती। अनजिरादीति किम् ? अजिरवती, हिरण्यवती ॥७८ ॥ अषौ विश्वस्य मित्रे । ३ । २ । ७९, ऋषावर्थ मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ॥ ७९ ॥ नरे । ३ । । २ । ८० नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विधानरः कश्चित् ॥ ८० ॥ व वसुराटोः । ३ । २ । ८१ । अनयोरुत्तरपदयोर्विधस्य दीर्घः स्यात् । विभावसु, चिधारा ॥ ८१ ॥ वलच्यपित्रादेः । ३ । २ । ८२ । वलच्प्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुती बलः । अपित्रादेरिति किम् ? पितृवलः, मातृवलः ॥८२॥
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/३०९
दिखावट