(१३६) हैमशब्दानुशासनस्य दैध्येऽनुः । ३ । १ । ३४ ।। दैघ्र्ये आयामविषये यलक्षणं तद्वाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । अनुगङ्गं वाराणसी।’’ इति किम् ? वृक्षमनुबियुत् ॥ ३४ ।। समीपे । ३ । १ । ३५। समीपार्थेऽनुः । समीपिवाचिनाम्ना पूर्वपदार्थं समा- सोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ॥ ३५ ॥ तिष्ठग्वित्यादयः । ३ । १ । ३६ । एते समासा अव्ययीभावाः स्युः, यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे। तिष्ठद्गु कालःअधोनाभं हतः ॥३६॥ नित्यं प्रतिनाऽल्पे । ३ । १ । ३७ । अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अस्प इति किम् ? वृक्षे प्रति विद्युत् ॥ ३७ ॥ सङ्ख्याऽक्षशलाकं परिणा घृतेऽन्यथावृत्तौ ।३।१३८ सङ्ख्यावाच्यक्षशलाके च चूतविषयायामन्यथावृत्तौ वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात्। एकपरि, अक्षपरि, शलाकापरि, एकेनाक्षेण शलाकया वा न तथावृत्तं यथापूर्वं जय इत्यर्थः । सङ्ख्यादीति किम् ? पाशकेन न तथावृत्तम् । धूत इति किम् ? रथस्याक्षेण न तथावृतम् ॥ ३८ ।। १ तिष्ठन्त्यो गावो यस्मिन्काले स कालस्तिष्ठ । स०
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/२६८
दिखावट