(१३०) हैंमुशब्दानुशासनस्यं भूषऽऽदर-क्षेपेऽलं-सदसत् । ३ । १ । ४ । एष्वर्थेष्वेते यथासंख्यं गतयः स्युः । अलइकृस्य, स कुल्य, असत्कृत्य । भूषादिष्विति किम् ? अलंकृत्वा भा क्रीत्यर्थः ।। ४ ।। अग्रहाऽनुपदेशे ऽन्तरदः । ३ । १ । ५ । अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य, अदःकृत्यैतत्कर्तेति ध्यायंति ॥ ५ ॥ कणे-मनस्तृप्तौ । ३ । १ । ६ । एतावच्ययौ तृसौ गम्यमानायां गती स्याताम् । कणे हत्य, मनोहत्य पयः पिबति । तृप्ताविति किम् ? तङला वयवे कणे हत्या ।। ६ ॥ पुरोऽस्तमव्ययम् । ३ । १ । ७ । एताचव्ययौ गती स्याताम् । पुरस्कृस्य, अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा नगरीरित्यर्थः ॥ ७ ॥ गत्यर्थ-वदोऽच्छः । ३ । १ ।८।। अच्छेत्यव्ययं गत्यर्थानां वश्च धातोः सम्बन्धि गतिः स्यात् । अच्छगत्य, अच्छोद्य ॥ ८ ॥ तिरोऽन्तद्धौं । ३ । १ । ९ । तिरोऽन्तद्धौं गतिः स्यात् । तिरोभूय ।। ९ ।। कृगो नवा । ३ । १ । १० ।। तिरोऽन्तडौं कृगः सम्बन्धि गतिर्वा स्यात् । तिर स्कृत्य तिरस्कृत्य, पक्षे तिरः कृत्वा ॥ १० ॥
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/२६२
दिखावट