(४९) जस्विशेष्यं वाऽऽमन्ये। २ । १ । २६ । युष्मदस्मद्भयां पूर्वे जसन्तमामन्त्र्यार्थं विशेष्यवा- च्यामन्त्र्ये पंदे ऽर्थात् तद्विशेषणे परेऽसादिव वा स्यात् । जिनाः। शरण्या युष्मान् शरणं प्रपद्ये, जिनाः। शरण्या वह शरणं प्रपथे । जिनाः ! शरण्या अस्मान् रक्षत, जिना । शरण्या न रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपचे, साधो । सुविहित ! नोऽथ रक्ष । विशेष्यमिति किम् ? शरण्याः साधवो । युष्मान् शरणं प्रपथे । आमन्त्र्य इति किम् ? आचार्यो युष्मान् शरण्याः शरणं प्रपचे। अर्थात् तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान् शरणं प्रपंये ॥ २६ ॥ नान्यत् । २ । १ । २७ । युष्मदस्मद्भयाम् पूर्वे जसन्तादन्यदामन्यै विशेष्य मामन्त्र्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो सुवि हित! त्वा शरणं प्रपद्ये । साधो सुविहित! मा रक्ष ॥२॥ पादयोः । २ । १ । २८ ॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदाव परयोः पादस्यादिस्थयोर्युष्मदस्मदोर्वस्नसादिनं स्यात् । “वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ पादयोरिति किम् ? fपान्तु वो देशनाकाले जैनेन्द्र शनांशयः । भवकूपपतन्तुजातोद्धरणरज्जवः ।। २ । ॐ ॥ २८ ॥ चाहहवैवयोगे । २ । १ । २९ । एभिर्योगे पदात् परयोर्युष्मदस्मद्र्वस्नसादिनं स्यात्।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१८३
दिखावट