पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
मोहमुद्गरः।
॥ मोहमुद्ररः॥

भज गोविंद भज गोविंद भज गोविंद मूढमते ।
प्राप्ते सन्निहिते मरणे न हि न हि रक्षति डुकृञ् करणे ॥ १ ॥
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्त तेन विनोदय चित्तम् ॥ २॥
नारीस्तनभरनाभीदेश दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं मनसि विचिंतय वारं वारम् ॥ ३ ॥
नलिनीदलगतजलमतितरल तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहत च समस्तम् ॥ ४ ॥
यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।
पश्चाजीवति जर्जरदेहे वार्ता पृच्छति कोऽपि न गेहे ।। ५ ।।
यावत्पवनो निवसति देहे तावत्पृच्छति कुशल गेहे ।
गतवति वायो देहापाये भार्या बिभ्यति तस्मिन्काये ।। ६ ॥
बालस्तावत्क्रीडासत्तरतरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावञ्चिंतामग्नः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥
का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
कस्य त्व कः कुत आयातस्तत्त्व चिंतय यदिद भ्रातः ॥ ८ ॥
सत्संगत्वे निःसंगत्वं निःसंगत्वे निर्मोहत्वम् |
निर्मोहत्वे निश्चलितत्व निश्चलितत्वे जीवन्मुक्तिः ॥ ९॥
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः।
क्षीणे वित्ते का परिवारो ज्ञाते तत्त्वे कः ससारः ॥ १० ॥
मा कुरु धनजनयौवनगर्व हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिल हित्वा ब्रह्मपद त्व प्रविश विदित्वा ॥ ११ ॥
दिनयामिन्यौ साय प्रातः शिशिरवसतौ पुनरायातः ।