पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
ब्रह्मानुचिंतनम् ।

मयि सर्वं लय याति तदब्रह्मास्म्यहमद्वयम् ।
सर्वज्ञोऽहमनतोऽहं सर्वेशः सर्वशक्तिमान् ॥२५॥
आनदः सत्यबोधोऽहमिति ब्रह्मानुचिंत्तनम् ।
अय प्रपचो मिथ्यैव सत्य ब्रह्मामव्ययम् ॥२६॥
अत्र प्रमाण वेदान्ता गुरवोऽनुभवरतथा ।
ब्रह्मैवाह न ससारी न चाह ब्रह्मणः पृथक् ॥२६॥
नाह देहो न मे देहः केवलोऽहं सनातनः ।
एकमेवाद्वितीय वै ब्रह्मणो नेह किंचन ॥२८||
हृदयकमलमध्ये दीपवद्वेदसार
 प्रणवमयमतर्क्यं योगिभिर्ध्यानगम्यम् ।
हरिगुरुशिवयोग सर्वभूतस्थमेक
 सकृदपि मनसा वै चिंतयेद्य. स मुक्तः ॥२९॥

इति ब्रह्मानुचिंतन समातम् ।

---