पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
ब्रह्मानुचिंतनम् ।

नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यह हरिः ॥१२॥
अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः ।
कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥१३॥
अच्युतोऽहमनंतोऽहं गोविंदोऽहमहं हरिः।
आनंदोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ||१४||
नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः ।
सच्चिदानंदरूपोऽहं पचकोशातिगोऽस्म्यहम् ॥ १५ ॥
अकर्ताहमभोक्ताहमसगः परमेश्वरः ।
सद मत्संनिधानेन चेष्टते सर्वमिंद्रियम् ।।१६॥
आदिमध्यांतमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥१७॥
ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ।
अशक्नुवन्भावयितुं वाक्यमेतत्सदाऽभ्यसेत् ॥१८॥
यदभ्यासेन तद्भावो भवेद्रमरकीटवत् ।
अत्रापहाय संदेहमभ्यसेत्कृतनिश्चयः ।।१९।।
ध्यानयोगेन मासैकाबह्महत्यां व्यपोहति ।
संवत्सरं सदाभ्यासात्सिद्धयष्टकमवाप्नुयात् ॥२०॥
यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्यतिः ।
नाहं देहो न च प्राणो नेंद्रियाणि तथैव च ।।२१॥
न मनोऽह न बुद्धिश्च नैव चित्तमहंकृतिः ।
नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥२२
न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः।
नाहं गंधो न रूप च न मायाहं न संसृतिः ॥२३॥
सदा साक्षिस्वरूपत्वान्छिव एवास्मि केवलः ।
मय्येव सकलं जात मयि सर्वं प्रतिष्ठितम् ।।२४॥