पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
प्रश्नोत्तररत्नमालिका।

कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ॥ ६२ ॥
कश्च कुलक्षयहेतुः संताप. सज्जनेषु योऽकारि ॥
केषाममोघवचनं ये च पुनः सत्यमौनशमशीलाः ।। ६३ ॥
किं जन्म विषयसंगः किमुत्तरं जन्म पुत्रः स्यात् ।।
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ।। ६४ ॥
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यॊ हि भगवदवतारः ।।
कश्च भगवान्महेशः शंकरनारायणात्मैकः ॥ ६५ ॥
फलमपि भगवद्भक्तेः किं तल्लोकस्वरूपसाक्षात्त्वम् ॥
मोक्षश्च को ह्यविद्यारतमयः कः सर्ववेदभूरथ चोम् ।। ६६
इत्येषा कठस्था प्रश्नोत्तररत्नमालिका येषाम् ।।
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ॥ ६७ ।।

॥ इति प्रश्नोत्तररत्नमालिका समाप्ता ।।

---