पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
प्रबोधसुधाकरः ।


लोहमपि चुबकाश्मा संमुखमात्रं जडं यद्वत् ॥ २५१ ॥
अयमुत्तमोऽयमधमो जात्या रूपेण संपदा वयसा ।।
श्लाघ्योऽश्लाघ्यो वेत्थ न वेत्ति भगवाननुग्रहावसरे ॥ २५२ ।
अंतःस्थभावभोक्ता ततोऽतरात्मा महामेघः ॥
खदिरश्चंपक इव वा प्रवर्षणं किं विचारयति ।। २५३ ।।
यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ॥
भक्ताः परमानंदे रमन्ति सदयावलोकेन ॥ २५४।।
सुतरामनन्यशरणाः क्षीराद्याहारमंतरा यद्वत् ॥
केलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥ २५५ ॥
यद्यपि गगनं शून्यं तथापि जलदामृतांशुरूपेण ॥
चातकचकोरनाम्नोदृढभावात्पूरयत्याशाम् ।। २५६ ।।
तद्वद्व्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः ।।
कृपया फलत्यकस्मात्सत्यानदामृतेन विपुलेन || २५७ ।

इति प्रबोधसुधाकरः समाप्तः ।