पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
प्रबोधसुधाकरः ।

उदासीनः स्तब्धः सततमगुणः सगरहितो
 भवास्तातः कात. परमिह भवेज्जीवनगतिः ।।
अकस्मादस्माक यदि न कुरुते स्नेहमय त-
 द्वसस्व स्वीयातर्विमिलजठरेऽस्मिन्पुनरपि ।। २४५ ॥
लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां
 सकोच. पंकजाना किमिह समुदिते मंडले चडरश्मेः ।।
भोग. पूर्वार्जिताना भवति भुवि नृणा कर्मणा चेदवश्यं
 तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरुर्जित निर्जित ते ॥ २४ ॥
नित्यानदमुधानिधेरधिगतः सन्नीलमेघः सता-
 मौत्कठ्यप्रबलप्रभजनभरैराकर्षितो वर्षति ।।
विज्ञानामृतमद्भुत निजवचो धाराभिरारादिद
 चेतश्चातक चेन्न वाछति मृपासातोऽसि सुप्तोऽसि किम् ९४७
चेतश्चचलता विहाय पुरत. सधाय कोटिद्वय
 तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।।
विश्रातिर्हितमप्यहो क्व नु तयोर्मध्ये तदालोच्यता
 युक्त्या वानुभवेन यत्र परमानदश्च तत्सेव्यताम् ।। २४८ ॥
पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धन
 भोज्यादिष्वपि तारतम्यवशतो नाल समुत्कठया ।।
नैतादृग्यदुनायके समुदिते चेतस्यनते बिभौ
 साद्रानदसुधार्णवे विहरति स्वैर यतो निर्भयम् || २४९ ।।
काम्योपासनयार्थयन्त्यनुदिन किचित्फल सेप्सित
 किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः ॥
अस्माक यदुनदनाघ्रियुगलध्यानावधानार्थिना
 किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥ २५०
आश्रितमात्र पुरुष स्वाभिमुख कर्षति श्रीशः ॥