पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
प्रबोधसुधाकरः।


स्रक्चंदनपरितोषात्कुब्जामृज्वाननामकरोत् ॥ २३५ ।।
निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः ।।.
तुंगोन्मत्तमतगः पतंगवद्दीपकस्याग्रे ॥ २३६ ।।
युद्धमित्रासह रंगे श्रीरंगेनांगसगमं प्राप्य ॥
'मुष्टिकचाणूराख्यौ ययतुर्निःश्रेयस सपदि ॥ २३७ ।।
देहकृतादपराधाद्वैकुठोत्कंठितातरात्मानम् ॥
यदुवरकुलावतंसः कस विध्वंसयामास ॥ २३८ ॥
हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै ॥
भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम् ।। २३९ ॥
मीनादिभिरवत्तारैर्निहताः सुरविद्विषो बहवः ।।
नीतास्ते निजरूप तत्र च मोक्षस्य का वार्ता ॥ २४० ॥
ये यदुनंदननिहतास्ते तु न भूयः पुनर्भव प्रापुः ॥
तस्मादवताराणामतर्यामी प्रवर्तकः कृष्णः ।। २४१ ।।
ब्रह्मांडानि बहूनि पकजभवान्प्रत्यंडमत्यद्भता-
 नगोपान्वत्सयुतानदर्शयदज विष्णूनशेषांश्च यः ॥
शंभुर्यञ्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रया-
 त्कृष्णो वै पृथगस्ति कोऽप्यविकृत सञ्चिन्मयो नीलिमा१४
कृपापात्रं यस्य त्रिपुररिपुरभोजवसति'
 सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ॥
प्रदानं वा यस्य त्रिभुवनपतित्व विभुरपि
 निदान सोऽस्माक जयति कुलदेवो यदुपतिः ॥ २४३ ।।
मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां
 मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि ।।
कारुण्यैकाधिवासे सकृढपि वदनं नेक्षसे त्वं मदीय
 तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शांतिम् ॥१४