पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
प्रबोधसुधाकरः।


स्वपरनृपतिपत्नीनामतर्यामी हरिः साक्षात् ।। २२६ ।।
परमार्थतो विचारे गुडतन्मधुरत्वदृष्टातात् ।।
नश्वरमपि नरदेह परमात्माकारतां याति ॥ २२४ ॥
किं पुनरनतशक्तेर्लीलावपुरीश्वरस्येह.]
कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः ।। २२५ ॥
मृद्भक्षणेन कुपितां विकसितवदनां स्वमातरं वक्त्रे ॥
विश्वमदर्शयदखिल किं पुनरथ विश्वरूपोऽसौ ॥ २२६ ॥

अनुग्रहः ।।

विषविषमस्तनयुगल पाययितु पूतना गृह प्राप्ता ॥
तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः ॥ २२७॥
अनयत्पृथुतरशकट निजनिकट वा कृतापराधमपि ॥
कंठाश्लेषविशेषादवधीद्वाल्येऽसुर कृष्णः ।। २२८ ।।
यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ ॥
रिंगन्नंगणभूमौ स्वमालय प्रापयन्नृहरिः ।। २२९ ॥
नित्य त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी ॥
काक' कोऽपि वराको बकोऽप्यशोक गती लोकम् || २.॥
गोगोपीगोपाना निकरमर्हि पीडयन्तमतिवेगात् ।।
अनधमघासुरमकरोत्पृथुतरमुरगेश्वर भगवान् ॥ २३१ ॥
पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः ।।
दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिंधुः ॥ २३२ ॥
पातु गोकुलमाकुलमशनितडिद्वर्पणैः कृष्णः ।।
असहाय एकहस्ते गोवर्धनमुद्दधारोच्चैः ॥ २३३ ।।
घासोलोभाकलितं धावद्रजकं शिलातलैर्हेत्वा ।।
विस्मृत्य तदपराधं विकुंठवासोऽर्पितस्तस्मै ।। २१४ ॥
त्रेधा वक्रशरीरामतिलंबोष्ठीं स्खलद्वपुर्वचनात् ।।