पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
प्रबोधसुधाकरः।


प्रसवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान् ॥
पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा ॥ २११ ।
गोपा अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय ||
इत्थमलौकिकलाभस्तेषां तत्र क्षण ववृधे ।। २१२ ॥
गोपा वत्साश्चान्या पूर्व कृष्णात्मका ह्यभवन् ।
तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन ॥ २१३ ॥
प्रेयः पुत्राद्वित्ताप्रेयोऽन्यस्माच्च सर्वस्मात् ॥
अंतरतरं यदात्मेत्युपनिषदः सत्यताभिहिता ।। २१४ ॥
९ नन्वुच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः ॥
दुर्योधनेऽर्जुने वा तरतमभावं कथ नु गतवान्सः ॥ २१५ ।।
बधिरांधपंगुमूका दीर्घाः खर्वाः सरूपाश्च ।।
सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन ।। २१६ ॥
भूतसमत्व नृहरेः समो हि मशकेन नागेन ॥
लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात् ॥ २१७ ॥
आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत् ।।
नानाकैतवयत्नै पररमणीभिः कथ रमते ।। २१८ ।।
सुंदरमभिनवरूप कृष्णं दृष्ट्वा विमोहिता गोप्यः ।।
तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः ।। २१९ ॥
गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुंजानाः ।।
कृष्णं विनान्यविषयं समक्षमपि जातु नाविंदन् ।। २२० ।
दुःसहविरहभ्रांत्या स्वपतीन्ददृशुस्तरून्नरांश्च पशून् ।।
हरिरयमिति सुप्रीताः सरंभसमालिंगयांचक्रुः ॥ २२१ ॥
कापि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः ॥
अपिबत्स्तनमिति साक्षाद्वयासो नारायणः प्राह ॥ २२२।। -
तस्मान्निजनिजदयितान्कृष्णाकारान्व्रजस्त्रियो वीक्ष्य ।।