पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
प्रबोधसुधाकरः।


दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ ।।१९८||
साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्विबम् ।।
विश्व प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥१९९॥
यद्यपि साकारोऽय तथैकदेशी विभाति यदुनाथः !
सर्वगतः सर्वात्मा तथाप्यय सच्चिदानदः ॥२०0॥
एको भगवान्रेमे युगपद्गोपीष्वनेकासु ॥
अथवा विदेहजनकश्रुतदेवभूदेवयोहरिर्युगपत् ॥२०1॥
अथवा कृष्णकारा स्वचमू दुर्योधनोऽपश्यत् ।
तस्माद्वयापक आत्मा भगवान्हरिरीश्वर. कृष्णः ॥२०२||
वक्षसि यदा जघान श्रीवत्स. श्रीपतेः स किं द्वेष्यः ।
भक्तानामसुराणामन्येषा वा फल सदृशम् ॥ २०३ ॥
तस्मान्न कोऽपि शत्रुर्नों मित्र नाप्युदासीनः ।
नृहरि सन्मार्गस्थः सफलः शाखीव यदुनाथः ॥२०४॥
लोहशलांकानिवहैः स्पर्शाश्मनि भिद्यमानेऽपि ।
स्वर्णत्वमेति लौह द्वेषादपि विद्विषा तथा प्राप्तिः ॥२०५॥
नन्वात्मनः सकाशादुत्पन्ना जीवसततिश्चेयम् ।
जगतः प्रियतर आत्मा तत्प्रकृते नैव सभवति ।।२०६॥
वत्साहरणावसरे पृथग्वयोरूपवासनाभूपान् ।
हरिरजमोह कर्तुं सवत्सगोपान्विनिर्ममे स्वरमात् ॥२०७॥
अग्नेर्यथा स्फुलिंगाः क्षुद्रास्तु व्युन्चरन्तीति ।
श्रुत्यर्थं दर्शयितु स्वतनोरतनोत्स जीवसदोहम् ॥२०८||
यमुनातीरेनिकुजे कदाचिदपि वत्सकाश्च चारयति ।
कृष्णे तथार्थगोपेषु च वरगोष्टेषु चारयत्स्वारात् ॥२०॥
वत्स निरीक्ष्य दूराद्गाव. स्नेहेन सभ्राता: ।
तदभिमुख धावन्त्यः प्रययुर्गोपैश्च दुर्वाराः ॥२१०॥