पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
प्रबोधसुधाकरः।


मंदस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ।।१८६॥
वलयांगुलीयकाद्यानुज्ज्वलयत स्वलंकारान् ।
गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥१८७॥
गुंजारवालिकलितं गुंजापुंजान्विते शिरसि ।
भुंजानं सह गोपैः कुंजांतरवर्तिनं हरिं स्मरतं ॥१८८||
मंदारपुष्पवासितमंदानिलसेवित परानंदम् ।।
मंदाकिनीयुतपदं नमत महानंदद महापुरुषम् ॥१८९||
सुरभीकृतदिग्वलय सुरभिशतैरावृतं सदा परितः ।
सुरभीतिक्षपणमहासुरभीम यादव नमत ||१९०॥
कंदर्पकोटिसुभव वाछितफलदं दयार्णव कृष्णम् !
त्यक्त्वा कमन्यविपयं नेत्रयुग द्रष्टुमुत्सहते ॥१९१।।
पुण्यतमामतिसुरसा मनोभिरामां हरेः कथां त्यक्त्वा ।
श्रोतु श्रवणद्वद्व ग्राम्य कथमादरं भवति ।।१९२॥
दौर्भाग्यामिंद्रियाणां कृष्णे विषये हि शाश्वतिके ।
क्षणिकेषु पापकरणेष्वपि सञ्यन्ते यदन्यविषयेषु ॥१९॥

सगुणनिर्गुणयोरैक्यम्।

श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम् ।
यत्रोक्त गूढतया तदह वक्ष्येऽतिविशदार्थम् ॥१९४॥
भूतेष्वंतर्यामी ज्ञानमयः सन्चिदानंदः ।
प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥१९५॥
ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासश्च ।
स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः ॥१९६॥
इतरे दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे ।
भगवाननया दृष्टया न लक्ष्यते ज्ञानगम्यः ॥१९७||
यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान् ।