पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
प्रबोधसुधाकरः।


तत्रोत्पतन्ति बहवः कृमयो दुर्गंधसंकीर्णाः ।। २४ ||
यो देह: सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे ।
सप्रति स रज्जुकाष्ठैर्नियंत्रितः क्षिप्यते वह्नौ ॥ २५, ।।
सिंहासनोपविष्ट दृष्ट्वा यं मुदमवाप लोकोऽयम् ।
त कालाकृष्टतनु विलोक्य नेत्रे निमीलयति ॥ २६ ॥
एवंविधोऽतिमलिनो देहो यत्सत्तया चलति ।
तं विस्मृत्य परेश वहत्यहंतामनित्येऽस्मिन् ॥ २७ ॥
कात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः ।
इति यो लज्जति धीमानितरशरीर स किं मनुते ॥ २८

विषयानंदाप्रकरणम् ।

मूढः कुरुते विषयजकर्दमसमार्जन मिथ्या ॥
दूरदृष्टवृष्टिविरसो देहो गेह पतत्येव ॥ २९ ।।
भार्या रूपविहीना मनस. क्षोभाय जायते पुसाम् ।।
अत्यंतं रूपाढया सा परपुरुषैर्वशीक्रियते ।। ३० ।।
यः कश्चित्परपुरुषो मित्रं भृत्योऽथवा भिक्षुः ।।
पश्यति हि साभिलाष विलक्षणोदाररूपवतीम् ।। ३१ ।।
य कचित्पुरुषवर स्वभर्तुरतिसुदर दृष्ट्वा ।।
मृगयति किं न मृगाक्षी मनसेव परस्त्रिय पुरुषः ॥ ३२ ॥
एव सुरूपनार्या भर्ता कोपात्प्रतिक्षण क्षीणः ॥
नो लभते सुखलेश बलिमिव बलिभुग्बहुष्वेकः ।। ३३ ॥
वनिता नितांतमज्ञा स्वाज्ञामुल्लभ्य वर्तते यदि सा ॥
शत्रोरप्यधिकतरा पराभिलाषिण्यसौ किमुत ।। ३४ ।।
लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोक. 11
मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः || ३५ ॥
सर्वेऽपि पुत्रभाजरतन्मुक्तौ ससृतिर्भवति ।।