पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
प्रबोधसुधाकरः।


आधिव्याधिवियोगात्मीयविपत्कलहदीर्घद्रारिद्यैः ।
जन्मानतरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२ ॥
नरपशुविहगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुक्ते ॥ १३ ॥
चरमस्तत्र नृदेहस्तत्रोजन्मान्वयोत्पत्तिः ।
स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥ १४ ॥
आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् ।
एव सति स्वमायु. प्राज्ञैरपि नीयते मिथ्या ।। १५ ।।
आयु.क्षणलवमात्र न लभ्यते हेमकोटिभिः क्वापि ।
तच्चेद्गच्छति सर्वं मृषा ततः काचिका हानिः ॥ १६ ॥
नरदेहातिक्रमणापाप्तौ पश्वादिदेहानाम् ।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७ ॥
सतत प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषै ।
हा कष्ट क्षुत्क्षामै. श्रांतैर्नो शक्यते वक्तुम् ॥ १८ ॥
रुधिरत्रिधातुमज्जामेदोमासास्थिसहतिर्देहः ।
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकै ॥ १९
नासाग्राद्वदनाद्वा कफ मल पायुतो विसृजन् ।
स्वयमेवैति जुगुप्सामतः प्रसृत च नो वेत्ति ।। २०
पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति ।
नो पश्यति निजदेह चास्थिसहस्नावृत परितः ॥ २२
केशावधिनखराग्रादिदमत. पूतिगधसपूर्णम् ।
बहिरपि चागरुचदनकर्पूराद्यैर्विलेपयति ।। २२ ।।
यत्नादस्य पिधत्ते स्वाभाविकदापसघातम् ।
औपाधिकगुणनिवह प्रकाशयञ्श्लाघते मूढः ॥ २३ ॥
क्षतमुत्पन्न देहे यदि न प्रक्षाल्यते त्रिदिनम् ।