पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
अद्वैतानुभूतिः।


आत्मयोगादनात्मायमात्मवदृश्यते तथा ।। ७५ ॥
नीरात्क्षीर पृथक्कृत्य हसो भवति नान्यथा ।।
स्थूलादेः संपृथक्कृत्य मुक्तो भवति नान्यथा || ७६ ॥
क्षीरनीरविवेकज्ञो हस एव न चेतरः ।।
आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ।। ७७ ।।
अध्यस्तचोरजः स्थाणोर्विकारः स्यान्नहि क्वचित् ॥
नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥ ७८ ॥
ज्ञाते स्थाणौ कुतश्वोरश्वोराभावे भय कुतः ॥
ज्ञाते स्वस्मिन्कुतो विश्व विश्वाभावे कुतोऽखिलम् ।। ७९ ॥
गुणवृत्तित्रय भाति परस्परविलक्षणम् ।।
सत्यात्मलक्षणे यस्मिन्स एवाह निरशकः ॥ ८ ॥
देहत्रयमिदं भाति यस्मिन्बह्मणि सत्यवत् ॥
तदेवाह परं ब्रह्म देहत्रयविलक्षणम् ॥ ८१ ॥
जाग्रदादित्रय यस्मिन्प्रत्यगात्मनि सत्यवत् ॥
स एवाह पर ब्रह्म जाग्रदादिविलक्षणः ॥ ८२ ॥
विश्वादिकत्रय यस्मिन्परमात्मनि सत्यवत् ॥
स एव परमात्माह विश्वादिकविलक्षण.।। ८३ ॥
विराडादित्रय भाति यस्मिन्साक्षिणि सत्यवत् ।।
स एव सच्चिदानदलक्षणोऽह स्वयप्रभः ॥ ८४ ।।

इति अद्वैतानुभूतिः सपूर्णा ॥

---