पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
अद्वैतानुभूतिः।


मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।।
बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ॥ ६३ ॥
मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ॥
बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥
ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ॥
प्रतिभास्यादिरूपेण तथात्मोत्थमिद जगत् ॥ ६५ ॥
ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ॥
एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ।।
यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।।
तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ।। ६७ ।।
अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रनज्जुसत्तया ॥
तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ।। ६८ ॥
अध्यरताहेरभावेन रज्जुरेवावशिष्यते ।।
तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९ ॥
स्फटिके रक्तता यद्वदुपाधेर्नीलतावरे ।।
यथा जगदिद भाति तथा सत्यमिवाद्वये ।। ७० ।।
स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा ।।
तथा जगदिद मिथ्या एकस्मिन्नद्वये मयि ।। ७१ ।।
जीवेश्वरादिभावेन भेद पश्यति मूढधीः ॥
निर्भेदे निर्विशेषेऽस्मिन्कथ भेदो भवेदध्रुवम् ॥ ७२ ।।
लिंगस्य धारणादेव शिवोऽय जीवतां व्रजेत् ॥
लिंगनाशे शिवस्यास्य जीवतावेशता कुतः ।। ७३ ॥
शिव एव सदा जीवो जीव एव सदा शिवः ।।
वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ।। ७४ ।।
क्षीरयोगाद्यथा नीर क्षीरवदृश्यते मृषा ।।