पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
अद्वैतानुभूतिः ।


जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ॥ ५० ॥
सैधवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।
स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ।। ५१ ॥
तोयाश्रयेषु सर्वेषु भामुरेकोऽप्यनेकवत् ।
एकोऽप्यात्मा तथा भाति सर्वक्षेत्रष्वनेकवत् ॥ ५२ ।।।
भानोरन्य इवाभाति जलभानुर्जले यथा ।
आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ।। ५३ ।।
बिंब विना यथा नीरे प्रतिबिंबो भवेत्कथम् ।
विनात्मान तथा बुद्धौ चिदाभासो भवेत्कथम् ॥ ५४ !।
प्रतिबिंबचलत्वाद्या यथा बिंबरय कर्हिचित् ॥
न भवेयुरतथाऽऽभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥
जले शैत्यादिक यद्वज्जलभानु न सस्पृशेत् |
बुद्धे कर्मादिक तद्वच्चिदाभास न सस्पृशेत् ॥ ५६ ॥
बुद्धे कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु सयुतः ।
चिदाभासो विकारीव शरावस्थाबुभानुवत् ।। ५७ ।।
शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ॥
बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥
जलम्यार्कं जल चोर्मि भासयन्भाति भास्करः ॥
आत्माभास धिय बुद्धेः कर्तृत्वादीनय तथा ॥ ५९ ।।
मेघावभासको भानुर्मेघच्छन्नोऽवभासते ॥
मोहावभासकरतद्वन्मोहन्छन्नो विभात्ययम् ।। ६० ।।
भास्य मेघादिक भानुर्भासयन्प्रतिभासते ।।
तथा स्थूलादिक भास्य भासयन्प्रतिभात्ययम् ॥ ६१ ।।
सर्वप्रकाशको भानु प्रकाश्यैर्नेव दूष्यते ॥
सर्वप्रकाशको ह्यात्मा सर्वैरतद्वन्न दूष्यते ॥ ६२ ।।