पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
अद्वैतानुभूतिः।


देहेद्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् । अहंकार तथा भामि चैतेषामभिमानिनम् ॥ ३८ ॥ सर्वं जगदिद नाहं विषयत्वादिद धियः । अहं नाह सुषुप्त्यादौ अहमः साक्षितः सदा ॥ ३९ ॥ सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ॥ द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥ उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते । तथात्मा कोशजैः सर्वै. कामाद्यैर्नैव लिप्यते ॥ ४१ ॥ 'फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ॥ अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ।। ४२ ।। देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते । यावत्तावदय मूढो नानायोनिषु जायते ॥ ४३ ॥ निद्रादेहजदुःखादि जाग्रदेह न सस्पृशेत् । जाग्रद्देहजदुःखादिस्तयात्मान न सस्पृशेत् ॥ ४४ ॥ जाग्रहिवदाभाति निद्रादेहस्तु निद्रया । निद्रादेहविनाशेन जाग्रदेहो न नश्यति ॥ ४५ ॥ तथायमात्मवद्भाति जाग्रदेहस्तु जागरात् । जाग्रदेहविनाशेन नात्मा नश्यति कर्हिचित् ॥ ४६ ॥ हित्वायं स्वाप्निक देह जाग्रहमपेक्षते । जाग्रदेहप्रबुद्धोऽय हित्वाऽऽत्मानं यथा तथा ॥ ४७ ॥ स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते । असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ।। ४८ ॥ भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः । रूपशीलादयश्चाल्पभोगा भोग्यस्वरूपकाः ।। ४९ ॥ ज्ञस्य नास्त्येव ससारो यद्वदज्ञस्य कर्मिणः ।