पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
स्वात्मनिरूपणम् ।


रजनीदिवसविरामस्फुरदनुभूतिप्रमाणसिद्धोऽहम् ।। १३७ ॥
लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् ।
लाभालाभमयोऽहं लब्धव्यानामलभ्यमानोऽहम् ॥ १३८ ।।
वर्णाश्रमरहितोऽह वर्णमयोऽह वरेण्यगण्योऽहम् ।
वाचामगोचरोऽहं वचसामर्थेन गम्यमानोऽहम् ॥ १३९ ।।
शमदमविरहितमनसा शास्त्रगतैरप्यगम्यमानोऽहम् ।
शरणमहमेव विदुषां शकलीकृतविविधसशयगणोऽहम् ॥ १४० ॥
षड्भावविरहितोऽहं षड्गुणरहितोऽहमाहितरहितोऽहम् ।
पदकोशविरहितोऽहं षडत्रिंशत्तत्त्वजालरहितोऽहम् ॥ १४१ ।।
सवित्सुग्वात्मकोऽहं समाधिसकल्पकल्पवृक्षोऽहम् ।
ससारविरहितोऽहं साक्षात्कारोऽहमात्मविद्यायाः ।। १४२ ॥
हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
हरिरहमस्मि हरोऽहं विधिरहमेवास्मि कारण तेषाम् ।। १४३ ॥
क्षालितकलुषभयोऽह क्षपितभवक्लेशजालहृदयोऽहम् ।
क्षान्ताद्यक्षरसुघटितविविधव्यवहारमूलमहमेव ॥ १४४ ॥
बहुभिः किमेभिरुक्तैरहमेवेद चराचर विश्वम् ।
शीकरफेनतरगा' सिंधोरपराणि न खलु वस्तूनि ॥ १४५ ॥
शरण न भवति जननी न पिता न सुता न सोदरा नान्ये ।
परम शरणमिद स्याच्चरण मम मूर्ध्नि देशिकन्यस्तम् ॥ १४६ ।।
आस्ते देशिकचरण निरवधिरास्ते तदीक्षणे करुणा ।
आस्ते किमपि तदुक्त किमत परमस्ति जन्मसाफल्यम् ॥ १४७ ।।
कारुण्यसारसान्द्राः काक्षितवरदानकल्पकविशेपाः ।
श्रीगुरुचरणकटाक्षाः शिशिराः शमयन्ति चित्तसतापम् ॥ १४८ ॥
कवलितचचलचेतोगुरुतरमडूकजातपरितोपा ।
शेते हृदयगुहाया चिरतरमेकैव चिन्मयी भुजगी ।। १४९ ।।