पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
स्वात्मनिरूपणम् ।


एष विशेषो विदुषां पश्यन्तोऽपि प्रपचसंसारम् ।
पृथगात्मनो न किंचित् पश्येयुः सकलनिगमनिर्णीतात् ॥ १..।
किं चिंत्यं किमचिंत्यं किं कथनीयं किमप्यकथनीयम् |
कि कृत्यं किमकृत्यं निखिलं ब्रह्मेति जानतां विदुषाम् ॥ १०१ ॥
निखिलं दृश्यविशेष दृग्रूपत्वेन पश्यतां विदुषाम् ।
बंधो नाऽपि न मुक्तिर्न परात्मत्व न चाऽपि जीवत्वम् ॥ १०२ ॥
असकृदनुचिंंतितानामव्याहततरनिजोपदेशानाम् ।
'प्रामाण्यपरमसीम्नां निगमनमिदमेव निखिलनिगमानाम् ॥ १० ॥
इति बोधितः स गुरुणा शिष्यो हृष्ट' प्रणम्य त पदयोः ।
स्वानुभवसिद्धमर्थं स्वयमेवान्तर्विचारयामास ।। १०४ ।।
अजरोऽहमक्षरोऽहं प्राज्ञोऽह प्रत्यगात्मबोधोऽहम् ।
परमानंदमयोऽहं परमशिवोऽहं भवामि परिपूर्णः ॥ १०५ ॥
आद्योऽहमात्मभाजामात्मानंदानुभूतिरसिकोऽहम् ।
आबालगोपमखिलैरहमित्यनुभूयमानमहिमाऽहम् ॥ १०६ ॥
इंद्रियसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् |
इतिमतिदूरतरोऽहं भावेतरसुखनिषिक्तचित्तोऽहम् ।। १०७ ।।
ईशोऽहमीश्वराणा ईर्ष्याद्वेषानुपगरहितोऽहम् ।
ईक्षणविषयमतीनामीप्सितपुरुषार्थसाधनपरोऽहम् ॥ १०८ ॥
उदयोऽहमेव जगतामुपनिपदुद्यानकृतविहारोऽहम् ।।
उद्वेलंशोकसागरवाडवमुखहव्यवाहनार्चिरहम् ॥ १०९ ॥
ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।।
ऊहापोहविचारैरुररीकृतवत्प्रतीयमानोऽहम् ॥ ११० ॥
ऋषिरहमृषिगणकोऽह सृष्टिरह सूयमानमहमेव ||
ऋद्धिरह वृद्धिरह तृप्तिरह तृप्तिदीपदीप्तिरहम् ॥ १११ ॥
एकोऽहमेतदीदृशमेवमिति स्फुरितभेदरहितोऽहम् ||