पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
स्वात्मनिरूपणम्।


विज्ञानशब्दवाच्या चित्प्रतिबिंबा न बुद्धिरप्यात्मा ।। १२ ॥
सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।।
आनदकोशनामा सोऽहकारः कथं भवेदात्मा ।। १३ ।।
यः स्फुरति बिंबभूतः स भवेदानन्द एव सकलात्मा !!
प्रागूर्ध्वमपि च सत्त्वादविकारित्वादबाध्यमानत्वात् ।। १४ ।।
अन्नमयादेरस्मादपर यदि नानुभूयते किंचित् ।।
अनुभविताऽन्नमयादेरस्तीत्यस्मिन्न कश्चिदपलापः ॥ १५ ॥
स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।।
सकृदप्यभावशंका न भवेद्बोधस्वरूपसत्ताया. ॥ १६ ।।
अनुभवति विश्वमात्मा विश्वनासौ न चानुभूयेत ॥
न खलु प्रकाश्यतेऽसौ विश्वमशेप प्रकाशयन्भानुः ॥ १७ ॥
तदिद तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।।
ब्रह्म तदित्यवधेय नो चेद्विषयो भवेत्परोक्षे च ॥ १८ ॥
इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ॥
अनिढमवाध्य तत्त्व सत्वादेतस्य न च परोक्षत्वम् ।। १९ ।।
नावेद्यमपि परोक्ष भवति ब्रह्म स्वयप्रकाशत्वात् ।।
सत्य ज्ञानमनत ब्रह्मेत्यतस्य लक्षण प्रथते ।। २० ॥
सति कोशशक्त्युपाधौ सभक्तस्तस्य जीवतेश्वरते ॥
नो चेत्तयोरभावाद्विगतविशेष विभानि निजरूपम् ॥ २१ ॥
सति सकलदृश्यबाधे न किमप्यरतीति लोकासिद्ध चेत् ॥
यन्न किमपीति सिद्ध ब्रह्म तदेवेति वेदतः सिद्धम् ॥ २२ ॥
एव मतिरहिताना तत्त्वमसीत्यादिवाक्यचिंतनया ।।
प्रतिभात्येष परोक्षवदात्मा प्रत्यक्प्रकाशमानोऽपि ॥ २३ ।।
तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिंतयन्नर्थम् ॥
देशिकदयाप्रभावादपरोक्षयति क्षणेन चात्मानम् ।। २४ ॥