पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
३९
सदाचारानुसंधानम् ।


॥सदाचारानुसंधानम्॥

सच्चिदानंदकंदाय जगदकुरहेतवे ।।
सदोदिताय पूर्णाय नमोऽनताय विष्णवे ।। १
सर्व वेदान्तसिद्धातैर्ग्रथित निर्मल शिवम् ।।
सदाचार प्रवक्ष्यामि योगिना ज्ञानसिद्धये ॥ २ ॥
प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मनः ।।
वरेण्य तद्धियो यो नश्चिदानदे प्रचोदयात् ॥ ३ ॥
अन्वयव्यतिरेकाभ्या जाग्रत्स्वप्नसुपुत्तिषु ।।
यदेक केवल ज्ञान तदेवास्मि पर बृहत् ।। ४ ॥
ज्ञानाज्ञानविलासोऽय ज्ञानाज्ञाने च शाम्यति ।।
जानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥
अत्यतमलिनो देहो देही चात्यंतनिर्मल' ।
असंगोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६ ॥
मन्मनो मीनवन्नित्यं क्रीडत्यानंदवारिधौ ॥
सुस्नातस्तेन यूतात्मा सम्यग्विज्ञानवारिणा ॥ ७ ॥
अथाधमर्षण कुर्यात्प्राणापाननिरोधतः ॥
मनः पूर्णे समाधाय मग्नकुभो यथार्णवे ॥ ८
लयविक्षेपयोः सधौ मनस्तत्र निरामितम् ॥
स सधिः साधितो येन स मुक्तो नात्र संशयः ।। ९ ॥
सर्वत्र प्राणिनां देहे जपो भवति सर्वद ॥
हसः सोऽहमिति ज्ञात्वा सर्वबधैर्विमुच्यते ॥ १०॥
तर्पण स्वसुखेनैव स्वेद्रियाणा प्रतर्पणम् ।।
मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११॥
आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् ।।