पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
वाक्यवृत्तिः।


तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ॥
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा !! ४८ ।।
अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् ॥
शमादिसहितस्तावदभ्यस्येच्छ्रवणादिकम् ॥ ४९ ॥
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ॥
निरस्ताशेषसंसारनिदानः पुरुषरतदा ५० ॥
विशीर्णकार्यकरणे भूतसूक्ष्मैरनावृतः ।।
विमुक्तकर्मनिगलः सद्य एव. विमुच्यते ।। ५१ ।।
प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत् ।।
कंचित्कालमनारब्धकर्मवधस्य संक्षये ॥ ५२ ।।
निरस्तातिशयानदं वैष्णव परम पदम् ॥
पुनरावृत्तिरहित कैवल्य प्रतिपद्यते ॥ ५३ ।।

॥ इति वाक्यवृत्तिः संपूर्णा ॥