पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
वाक्यवृत्तिः।


श्रूयते यस्य वेदेषु तद्ब्रह्म्येत्यवधारय ॥ ३५ ॥
कर्मणा फलदातृत्व यस्यैव श्रूयते श्रुतौ ॥-
जीवाना हेतुकर्तृत्व तद्ब्रह्मेत्यवधारय ।। ३६ ॥ ..
तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चित्यतेऽधुना ।
तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७॥
ससर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ॥
अखडैकरसत्वेन वाक्यार्थो विदुषा मतः ॥ ३८ ॥
प्रत्यग्बोधो य आभाति सोऽद्वयानंदलक्षणः ॥
अद्वयानदरूपश्च प्रत्यग्बोधैकलक्षणः ।। ३९ ।।
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् ।।
अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४० ॥
तदर्थस्य च पारोक्ष्य यद्येव किं ततः शृणु ।।
पूर्णानंदैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४ ॥
तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।
लक्ष्यौ तत्त्वपदार्थौ द्वावुपादाय प्रवर्तते ॥ ४२ ॥
हित्वा द्वौ शबलौ वान्यौ वाक्य वाक्यार्थबोधने ।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ।। ४३ ॥
आलबनतया भाति योऽस्मत्प्रत्ययशब्दयोः ॥
अंतःकरणसंभिन्नबोधः स त्वपदाभिधः ॥ ४४ ।।
मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ॥
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ॥
विरुध्यते यतस्तस्माल्लक्षणा सप्रवर्तते ॥ ४६ ॥
मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे ।।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥ ४७ ।।