पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
वाक्यवृत्तिः।

घटावभासको दीपो घटादन्यो यथेष्यते ॥
देहावभासको देही तथाऽहं बोधविग्रहः ॥ २३,
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।।
द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥
परप्रेमास्पदतया मा न भूवमहं सदा ।।
भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥
यः साक्षिलक्षणे बोधस्त्वपदार्थः स उच्यते ।।
साक्षित्वमपि बोद्धृत्वमविकारितयाऽऽत्मनः ।। २६ ॥
देहेंद्रियमनः प्राणाहकृतिभ्यो विलक्षणः ।।
प्रोज्झिलाशेषषड्भावविकारस्त्वपदाभिधः ॥ २७ ॥
त्वमर्थमेव निश्चित्य तदर्थ चिंतयेत्पुनः ।।
अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
निरस्तीशेषससारदोषोऽस्थूलादिलक्षणः ।।
अदृश्यत्वादिगुणकः पराकृततमोमल' ॥ २९ ॥
निरस्तातिशयानदः सत्यः प्रज्ञानविग्रहः ।।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥
सर्वज्ञत्व परेशत्व तथा सपूर्णशक्त्तिा ।।
वेदैः समर्थ्यते यरय तद्ब्रह्मेत्यवधारय ॥ ३१ ॥
यज्ज्ञानात्सर्वविज्ञान श्रुतिषु प्रतिपादितम् ॥
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
यदानंत्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।।
तत्कार्यत्व प्रपंचस्य तद्ब्रह्मेत्यवधारय ।। ३३ ॥
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ।।
समर्थ्यतेऽतियत्तेन तद्ब्रह्मेत्यवधारय ।। ३४ ॥
'जीवात्मना प्रवेशश्च नियन्तृत्व च तान्प्रति ॥