पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७१
विवेकचूडामणिः


इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपित मुमुक्षूणा सुखबोधोपपत्तये ॥ ५७९ ॥
हितमिममुपदेशमाद्रियतां विहितनिरस्तसमस्तचित्तदोषाः ।
भवसुखविरताः प्रशातचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ८० ॥
ससाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-
 खिन्नाना जलकाक्षया मरुभुवि श्रात्या परिभ्राम्यताम् ।
अत्यासन्नसुधाबुधि सुखकर ब्रह्माद्वय दर्शय-
 न्त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ ५८१ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ विवेकचूडामणिः समाप्तः ।