पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६५
विवेकचूडामणिः ।


अव्यक्तादि स्थूलपर्यंतमेतद्विश्वं यत्रामासमात्रं प्रतीतम् ।।
व्योमप्रख्यं सूक्ष्ममाघतहीनं ब्रह्माद्वैत यत्तदेवाहमास्मि ।। ५१३।।
सर्वाधार-सर्ववस्तुप्रकाशं सर्वाकार सर्वगं सर्वशून्यम् । -
नित्यं शुद्ध निश्चल निर्विकल्प ब्रह्माद्वैतं वत्तदेवाहमस्मि ।। ५१४ ॥
यत्पत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् ।
सत्यज्ञानानतमानंदरूप ब्रह्माद्वैत यत्तदेवाहमस्मि ॥ ५१५ ॥
निष्कियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः ।
निर्विकल्पोऽस्मि नित्योऽस्मि निरालंबोऽस्मि निर्द्वयः ॥ ५१६ ॥ .
 सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।
 केवलाखडबोधोऽहमानदोऽहं निरंतरः ।। ५१७ ॥
स्वाराज्यसाम्राप्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् ।
समाप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु । ५१८ ॥
 महास्वप्ने मायाकृतजानिजरामृत्युगहने
  भ्रमंत क्लिश्यत बहुलतरतापरेनुदिनम् ।
 अहकारव्याघ्रव्याथितमिममत्यतकृपया
  प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो || ५१९ ॥
  नमस्तस्मै सदेकस्मै कस्मैचिन्महसे नमः ।
  यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२०॥
इति नतमवलोक्य शिष्यवयं समधिगतात्मसुख प्रबुद्धतत्त्वम् ।
रामुदितहृदयः स देशिकेंद्रः पुनरिदमाह वचः परं महात्मा ॥ ५२१ ॥
 ब्रह्मप्रत्ययसंततिर्जगदतो ब्रह्मैव सत्सर्वतः
  पश्याध्यात्मशा प्रशातमनसा सर्वास्ववस्थावपि ।
 रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
  तद्ब्रह्मविदः सतः किमपरं बुद्धेविहारास्पदम् ॥ ५२२ ॥
 कस्तां परानंदरसानुभूतिमुत्सृज्य शून्येषु रमेत विद्वान् ।