पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६२
विवेकचूडामणिः ।


तटस्थिता बोधयंति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥.४७७ ॥
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखडितम् |
संसिद्धः संमुखं तिष्ठेन्निर्विकल्पात्मनात्मनि ॥ ४७८ ॥ .
वेदांतसिद्धांतनिरुक्तिरेपा ब्रह्मैव जीवः सकलं जगच्च ।
अखंडरूपस्थितिरेव मोक्षो ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥ ४७९ ॥
इति गुरुवचनान्मृतिप्रमाणात्परमवगम्य सतत्त्वमात्मयुक्या।
प्रशमितकरणः समाहितात्मा कचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥४८०॥
कचित्काल समाधाय परे ब्रह्मणि मानसम् ।
उत्थाय परमानंदादिदं वचनमब्रवीत् ॥ ४८१ ॥
बुद्धिविनष्टा गलिता प्रवृत्तिर्बह्मात्मनोरेकतयाधिगत्या ।
इदं न जानेऽप्यनिदं न जाने किंवा कियद्वा सुखमस्त्यपारम् ४८२
वाचा वक्तुमशक्यमेव मनसा मंतुं न वा शक्यते
स्वानंदामृतपूरपूरितपरब्रह्मांबुधेवैभवम् ।
अंभोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो
यस्यांशांशलवे विलीनमधुनानंदात्मना निर्वृतम् ।। ४८३ ।।
क गतं केन वा नीतं कुत्र लीनमिद जगत् । -
अधुनैव मया दृष्ट नास्ति कि महदद्भुतम् ॥ ४८४ ।।
किं हेयं किमुपादेय किमन्यत्किं विलक्षणम् ।
अखडानंदपीयूषपूर्णे ब्रह्ममहार्णवे ॥ ४८५ ।।
न किंचिदत्रं पश्यामि न शृणोमि न वेदम्यहम् ।
स्वात्मनैव सदानंदरूपेणास्मि विलक्षणः ॥ ४८६ ॥
नमो नमस्ते गुरवे महात्मने विमुक्तसंगाय सदुत्तमाय ।
नित्याद्वयानदरसस्वरूपिणे भूम्ने सदापारदयांबुधाम्ने ॥ ४८७ ।
यत्कटाक्षशशिसांद्रचंद्रिकापोतधूतभवतापजश्रमः ।