पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवेकचूडामणिः। २५७ ससिद्धस्य फलं लेतज्जीवन्मुक्तस्य योगिनः । वहिरत सदानढरसास्वादनमात्मनि ॥ ४१९ ॥ वैरान्यस्य फल वोधो वोधस्योपरतिः फलम् । स्वानदानुभवाच्छातिरपैवोपरतेः फलम् ।। ४२० ।। यद्युत्तरोत्तराभावः पूर्वपूर्व तु निष्फलम् । निवृत्ति परमा तृतिरानदोऽनुपमः स्वतः ॥ ४२१ ।। दुष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुत फलम् । यत्कृत भ्रातिवेलाया नानाकर्म जुगुप्सितम् । पश्चान्नरो विवेकेन तत्कथ कर्तुमर्हति ॥ ४२२ ।। विद्याफलं स्यादसतो निवृत्ति प्रवृत्तिरंज्ञानफल तटीक्षितम् । तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नो चेद्विदो दृष्टफल किमस्मात् ।। ४२३ ॥ अज्ञानहृदयग्रंथनिनाशो यद्यशेषतः।। अनिच्छोर्विवयः किं प्रवृत्तेः कारणं स्वतः ।। ४२४ ॥ वासनानुदयो भोग्ये वैराग्यस्य परोऽवधिः । अहंभावोदयाभावो बोधस्य परमोऽवधिः । लीनवृत्तेरनुत्पत्तिमर्यादापरतेस्तु सा ॥ ४२५ ॥ ब्रह्माकारतया सदा स्थिततया निर्मुक्तवाह्यार्थी- रन्यावेदितभोग्यभोगकलनो निद्रालवद्वालवत् । स्वमालोकितलोफवजगदिदं पश्यन्कचिल्लब्धधी- रास्ते कश्चिदनंतपुण्यफलभुग्धन्यः स मान्यो भुवि ।। ४२६ ।। स्थितप्रज्ञो यतिरय यः सदानदमश्नुते । ब्रह्मण्येव विलीनामा निर्विकारो विनिष्क्रियः ॥ ४२७ ॥ ब्रह्मात्मनोः शोधितयोरेकमावावगाहिनी । -निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद्यस्य स्थितप्रज्ञः स उच्यते ॥ ४२८ ॥ १७