कार्यनाशाद्वीजनाशस्तस्मात्कार्य निरोधयेत् ।। ३१३ ॥
वासनावृद्धितः कार्य कार्यवृद्धया च वासना ।
वर्धते सर्वथा पुस. ससारो न निवर्तते ॥ ३१४ ॥
ससारबधविच्छित्त्यै तद्वय प्रदहेद्यतिः ।
वासनावृद्धिरेताभ्यां चिंतया लियया बहिः ।। ३१५ ॥
ताभ्यां प्रवर्धमाना सा सूते समृतिमात्मनः ।
त्रयाणा च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१६ ॥
सर्वत्र सर्वत. सर्व ब्रह्ममात्रावलोकनम् ।
सद्भाववासनादाढर्यात्तात्रय लयमश्नुते ॥ ३१७ ।।
क्रियानाशे भवेचितानाशोऽस्माद्वासनाक्षयः ।
वासनाप्रक्षयो मोक्ष' सा जीवन्मुक्तिरिष्यते ॥ ३१८ ॥
द्विासनास्फूर्तिविजृभणे सति ह्यसौ विलीना वहमादिवासना ।
अतिप्रकृष्टाप्यरुणप्रभाया विलीयते साधु यथा तमिस्रा ॥ ३१९ ।।
तमस्तम.कार्यमनर्थजाल न दृश्यते सत्युदिते दिनेशे ।
तथाऽद्वयानदरसानुभूतौ नैवास्ति बधो न च दुःखगध. ।। ३२० ॥
दृश्यं प्रतीत प्रविलापयन्वय सन्मात्रमानंदधन विभावयन् ।
समाहित सन्बहिरतर वा काल नयेथाः सति कर्मबधे ॥ ३२१ ।।
प्रमादो ब्रह्मनिष्ठाया न कर्तव्य' कदाचन ।
प्रमादो मृत्युरित्याह भगवान्ब्रह्मण. सुत' ।। ३२२ ॥
न प्रमादादनर्थोऽन्यो ज्ञानिन· स्वस्वरूपत' |
ततो मोहस्ततोऽहधीस्ततो बधस्ततो व्यथा ॥ ३२३ ॥
विषयामिमुख दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ।। ३२४ ॥
यथा प्रकृष्ट शैवालं क्षणमात्र न तिष्ठति ।
आवृणोति तथा माया प्राज्ञ वापि परामुखम् ॥ ३२५ ॥