पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
विवेकचूडामणिः ।


अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः २३२
ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्टा वरिष्ठाम् ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नतारोपितस्य।।२३३॥
सत्यं यदि स्याज्जगदेतदात्मनोऽनतत्वहानिर्निगमाप्रमाणता |
असत्यवादित्वमपीशितुः स्यान्नैतत्त्रयं साधु हितं महात्मनाम् २३४
 ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
 नच मत्स्थानि भूतानीत्येवमेव व्यचिक्लपत् ॥ २३५ ॥
 यदि सत्य भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।
 यन्नोपलभ्यते किंचिटतोऽसत्स्वप्नवन्मृषा ॥ २३६ ॥
अतः पृथड्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत्
आरोपितस्यास्ति किमर्थवत्ताधिष्ठानमाभाति तथा भ्रमेण ॥२३७॥
भ्रांतस्य यद्यद्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदंतया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्माणि नाममात्रम् ॥२३८॥
अतः परं ब्रह्म सदद्वितीय विशुद्धविज्ञानघन निरजनम् ।
प्रशांतमातविहीनमक्रिय निरंतरानंदरसस्वरूपम् ॥ २३९ ॥
निरस्तमायाकृतसर्वभेदं नित्यं सुख निष्कलमप्रमेयम् ।
अरूपमव्यक्त्रमनाख्यमव्ययं व्योतिः स्वयं किंचिदिदं चकास्ति२४०
 ज्ञातृशेयज्ञानशून्यमनंतं निर्विकल्पकम् ।
 केवलाखंडचिन्मानं परं तत्त्व विदुर्बुधाः ॥ २४१ ॥
 अहेयमनुपादेयं मनोवाचामगोचरम् ।
 अप्रमेयमनाचंतं ब्रह्म पूर्णमहं महः ॥ २४२ ॥
तत्त्वं पदाभ्यामभिधीयमानयोर्ब्रह्मात्मयोः शोधितयोर्यदात्थम् ।
श्रुत्या तयोस्तत्त्वमसीति सम्यगेकत्वमेव प्रतिपाद्यते मुहुः ॥ २४३॥
 ऐक्यं तयोर्लक्षितयोर्न वाच्ययो-
  निगद्यतेऽन्योन्यविरुद्धधर्मिणोः ।