पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
विवेकचूडामणिः ।


 अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ १०५ ॥
 अहकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् ।
 सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ॥ १०६ ॥
 विषयाणामानुकूल्ये सुखी दुःखी विपर्यये ।
 सुखं दुःखं च तद्धर्मः सदानदस्य नात्मनः ॥ १०७ ॥
 आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।
 स्वत एव हि सर्वेपामात्मा प्रियतमो यतः ।। १०८ ।।
 तत आत्मा सदानदो नास्य दुःखं कदाचन ।
 यत्सुपुप्तौ निर्विषय आत्मानंदोऽनुभूयते ।
 श्रुतिः प्रत्यक्षमैतिह्यमनुमान च जाग्रति ।। १०९ ॥
अव्यक्तनाम्नी परमेशशक्तिरनाद्यविद्या त्रिगुणात्मका परा ।
कार्यानुमेया सुधियैव माया यया जगत्सर्वमिद प्रसूयते ॥ ११० ॥
सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयाल्मिका नो ।
सागाप्यनंगा [भयामिका नो महाभुताऽनिर्वचनीयरूपा ॥१११॥
शुद्धद्वयब्रह्मविवोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा ।
रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ||११२
विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसूता पुराणी ।
रागादयोऽस्याः प्रभवन्ति नित्य दुःखादयो ये मनसो विकाराः ११
कामः क्रोधो लोभदभायसूयाहंकारामत्सराद्यास्तु धोराः ।
धर्मा एते राजसाः पुंप्रवृत्तिर्यस्मादेषा तद्रजो बंधहेतुः ॥ ११४ ।।
एषावृत्तिर्नाम तमोगुणस्य शक्तिर्ययाधस्त्ववभासतेऽन्यथा |
सैषा निदानं पुरुषस्य ससृतेर्विक्षेपशक्तेः प्रणवस्य हेतुः ॥ ११५ ।।
 प्रज्ञावानपि पंडितोऽपि चतुरोऽप्यत्यंतसूक्ष्मात्महम्
  व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् ।
 भ्रान्त्यारोपितमेव साधु कलयत्यालबते तद्गुणान् ।