पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२५
विवेकचूडामणिः।


 शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते ।
 तदेतच्छ्रवणात्सत्य भवबधाद्विमोक्ष्यसे || ७०
मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यतमनित्यवस्तुषु ।
ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
ततः श्रुतिस्तन्मनन सतत्त्वध्यानं चिर नित्यनिरतरं मुनेः ।
ततोऽविकल्प परमेत्य विद्वानिहैव निर्वाणसुख समृच्छति ॥ ७२ ॥
 यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।
 तदुन्यते मया सम्यक् श्रुत्वात्मन्यवधारय ॥ ७३ ।।
मजास्थिमेदापलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षोभुजपृष्ठमस्तकैरगैरुपांगैरुपयुक्तमेतत् ॥ ७४ ।।
अहममेति प्रथितं शरीर मोहास्पद स्थूलमितीर्यते बुधैः ।
नभोनभस्वदहनाबुभूमयः सूक्ष्माणि भूतानि भवति तानि ॥ ७५ ॥
परस्पराशैमिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः ।
मंत्रास्तदीया विषया भवन्ति शब्दादयः पच सुखाय भोक्तुः ॥७६]]
य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमैन ।
आयाति नियात्यध ऊर्ध्वमुचैः स्वकर्मदूतेन जवेन नीताः ॥ ७ ॥
शब्दादिभिः पंचभिरेव पच पंचत्वमापुः स्वगुणेन बद्धाः
कुरंगमातगपतगमीनभृगा नरः पंचभिरचितः किम् ॥ ७८ ॥
 दोषेण तीवो विषयः कृष्णसर्पविषादपि ।
 विष निहति भोक्तार द्रष्टारं चक्षुषाप्ययम् ॥ ७९ ॥
 विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
 स एव कल्पते मुक्त्यै नान्यः पदशास्त्रवेद्यपि ॥ ८० ॥
आपातवैराग्यवतो मुमुक्षून् भवान्धिपारं प्रतियातुमुद्यतान् ।
आशाग्रहो मज्जयतेऽन्तराले निगृह्य केठे विनिवर्त्य वेगात् ॥ ८१ ।।
 विषयाशाग्रहो येन सुविरक्त्यसिना हतः ।