पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
विवेकचूडामणिः।


ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ॥५८||
वीणाया रूपसौदर्य तंत्रीवादनसौष्ठवम् ।
प्रजारंजनमात्र तन्न साम्राज्याय कल्पते ॥५९।।
वाग्वैखरी शब्दझरी शस्त्रव्याख्यातकौशलम् ।
वैदुध्यं विदुषां तद्भुक्तये न तु मुक्तये ॥६०||
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६॥
शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नाज्ञातव्यं तत्वज्ञात्तत्त्वमात्मनः ।।६२।।
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौपध विना ।
किमु वेदैश्च शास्त्रैश्च किमु मत्रैः किमौषधैः ॥६३॥
न गच्छति विना पान व्याधिरौषधशब्दतः ।
विनापरोक्षानुभवं ब्रह्मशब्दैन मुच्यते ।।६४||
अकृत्वा दृश्यचिलयमज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥ ६५ ॥
अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् ।
राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥६६॥
 आप्तोक्ति खननं तथोपरि शिलाद्युत्कर्षणं स्वीकृति
  निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति ॥
 तद्वत् ब्रह्मविदोपदेशमननध्यानादिमिर्लभ्यते
  मायाकार्यतिरोहितं स्वममलं तत्त्व न दुर्युक्तिभिः ॥ ६७ ॥
तस्मात्सर्वप्रयत्नेन भवबंधविमुक्तये ।
स्वैरेव यत्नः कर्तव्यों रोगादाविव पंडितैः ॥ ६८॥-
यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः ।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६९ ॥