पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
विवेकचूडामणिः।


चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिमिः ॥११॥
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।
भ्रांतोदितमहासर्प-भयदुःखविनाशिनी ॥१२॥
अर्थस्य निश्चयो दृष्ट विचारेण हितोक्तितः ।
न लानेन न दानेन प्राणायामशतेन वा ॥१३॥
आधिकारिणमाशास्ते फलसिद्भिर्विशेषतः ।
उपाया देशकालाद्याः सत्यस्मिन्सहकारिणः ॥१४॥
अतो विचार कर्तव्यो जिज्ञासोरात्मवस्तुतः ।
समासाद्य दयासिंधु गुरु ब्रह्मविदुत्तमम् ॥१५॥
मेधावी पुरुषो विद्वानूहापोहविचक्षणः ।
आधिकार्यात्माविद्यायामुक्तलक्षणलक्षितः ॥१६॥
विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥१७॥
साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।
•येषु यत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥१८॥
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।
इहामुत्रफलभोगविरागस्तदनंतरम् ॥१९॥
शमादिषदकसपत्तिर्मुमुक्षुत्वमिति स्फुटम् ।
ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः ॥२०॥
सोऽय नित्यानित्यवस्तुविवेकः समुदाहृतः ।
तद्वैराग्य जिहासा या दर्शनश्रवणादिभिः ॥२१॥
देहादिब्रह्मपर्यंते ह्यनित्ये भोगवस्तुनि ।
विरज्य विषयवातादोषदृष्ट्या मुहुर्मुहुः ॥२२॥
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ।