पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
सर्ववेदान्तसिद्धान्तसारसंग्रह।


अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥
इद जगदयं सोऽय दृश्यजात्मवास्तवम् ।
यस्य चित्ते न फुरति स जीवन्मुक्त उच्यते ॥ ९७४ ॥
चिदात्माह परात्माह निर्गुणोऽह परात्परः ।
आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ।। ९७५ ।।
देहत्रयातिरिक्तोऽह शुद्धचैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ।।
यस्य देहादिकं नास्ति यस्य ब्रह्मेति, निश्चयः ।
परमानदपूर्णो यः स जीवन्मुक्त उन्यते ।। ९७७ ॥
अहं ब्रह्मास्म्यह ब्रह्मास्म्यह ब्रहोति निश्चयः ।
चिदह चिदह चेति स जीवन्मुक्त उन्यते ॥ ९७८ ॥
जीवन्मुक्तिपद त्यक्त्वा स्वदेहे कालासात्कृते ।
विशत्यदेहमुक्तित्व पवनोऽस्पंदतामिव ॥ ९७९ ॥
ततस्तत्संबभूवासौ यगिरामप्यगोचरम् ।
यच्छ्न्यवादिनां शून्य ब्रह्म ब्रह्मविदा च यत् ॥ ९८० ॥
विज्ञान विज्ञानविदां मलानां च मलात्मकम् ।
पुरुपः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ।। ९८१ ॥
शिवः शैवागमस्थाना काल. कालैकवादिनाम् ।
यत्सर्वशास्त्र सिद्धान्त यत्सर्वहृदयानुगम् ।
यत्सर्वं सर्वगं वस्तु तत्तत्त्व तदसौ स्थितः ।। ९८२ ॥
ब्रह्मैवाहं चिदेवाहमेव वापि न चिंत्यते ।
चिन्मात्रेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३ ।।
यस्य प्रपचभान न ब्रह्माकारमपीह न ।
अतीतातीतभावो यो विदेहो मुक्त एव सः ।। ९८४ ॥
चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः ।