पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


यस्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ।। ९४८ ।।
इदं ममेति सर्वेषु दृश्यभावेष्वभावना ।
जाग्रजाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥
विदित्वा सच्चिदानंदे मयि दृश्यपरंपराम् ।
नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५० ॥
परिपूर्णचिदाकाशे मयि बोधात्मतां विना ।
न किंचिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ।। ९५१ ।।
मूलाज्ञानविनाशेन कारणाभासचेष्टितैः ।
बंधो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥ ९५२ ।।
कारणाज्ञाननाशाद्यद्दष्टदर्शनदृश्यता ।
न कार्यमस्ति तज्ञान स्वप्नस्वप्नः समीर्यते ॥ ९५३ ।।
अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचंचला ।
विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५१ ॥
चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः ।
आनदानुभवो विद्वन् सुप्तिजाप्रदितीर्यते ॥ ९५५ ॥
वृत्तौ चिरानुभूतांतरानदानुभवस्थितौ ।
समात्मतां यो यात्येष सुप्तिरवप्न इतीर्यते ॥ ९५६ ॥
दृश्यधीवृत्तिरेतरय केवलीभावभावना |
पर बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥
परब्रह्मवदाभाति निर्विकारेकरूपिणी ।
सर्वावस्थासु धारका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥
इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी |
शुभेच्छादित्रय भूमिभेदाभेदयुत स्मृतम् ।। ९५९ ।।
यथावद्भेदबुद्धयेद जगज्जाग्रदितीर्यते ।
अद्वैते स्थैर्यमायाते द्वैते च प्रशम गते ॥ ९६० ॥