पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥
प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह ।।९२५||
नमो नमस्ते गुरवे नित्यान्दस्वरूपिणे ।
मुक्तसङ्गाय शांताय त्यक्ताहन्त्वाय ते नमः ।। ९२६ ॥
'दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते ।
नैवास्ति यत्कटाक्षेण ब्रह्मैवाऽभवमद्वयम् ।। ९२७ ।।
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ।। ९२८ ॥
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९ ॥
नित्यान्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् ।
पूर्णोऽहमनवद्योऽहं केवलोऽहञ्च सद्गुरो ॥ ९३० ॥
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।
आनन्दघन एवाहमसंगोऽहं सदाशिवः ।। ९३१ ॥
त्वत्कटाक्षवरचांद्रचंद्रिकापातधूतभवतापजः श्रमः ।
प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ।। ९३२ ।
छायया स्पृष्टमुष्णं वा शीतं वा दुष्ट सुष्ठ वा ।
न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥
न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् |
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥
रवेर्यथा कर्मणि साक्षिभावो
 वह्नेर्यथा वायसि दाहकत्वम् ।
रज्जोर्यथारोपितवस्तुसङ्ग-
 स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५ ॥
इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः।