पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


चित्तादिसर्वभावेषु  ब्रह्मत्वेनैव भावनात् ॥९१४॥
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।
निषेधनं प्रपञ्चस्य रेचकाक्यः समीरणः ॥९१५॥
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ।
ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥९१६॥
अयञ्चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ।
विषयेष्वात्मता त्यक्त्वा मनसश्चिति मज्जनम् ॥९१७॥
प्रत्याहार स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ।
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥९१८॥
मनसा वारणञ्चैव धारणा सा परामता ।
ब्रह्मैवास्मीति सद्वृत्या निगलम्बतया स्थितिः ॥९१९॥
ध्यानशब्देन विख्याता परमानन्ददायिनी ।
निर्विकारतया वृत्या ब्रह्माकारतया पुनः ॥९२०॥
वृत्तिविस्मरणं सम्यग् समाधिर्ध्यानसंयकः ।
समाधौ क्रियमाणे तु विद्या आयान्ति वै बलात् ॥९२१॥
अनुसन्धानराहित्यमालस्यं भोगलालसम् ।
भयं तमश्च विक्षेपस्तेजः स्पन्दश्च शून्यता ॥ १२२ ॥
एवं यद्विघ्नबाहुल्यं त्याज्यं तत् ब्रह्मविज्जनैः ।
विघ्नानेतान्परित्यज्य प्रमादरहितो वशी ।
समाधिनिष्टया ब्रह्म साक्षाद्भवितुमर्हसि ॥९२३॥
इति गुरुवचनात् श्रुतिप्रमाणात् -
 परमवगम्य स्वतत्त्वमात्मबुद्ध्या ।
प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिमात्मनिष्ठतोऽभूत् ॥९२४॥
बहुकालं समाध्याय स्वस्वरूपे तु मानसम् ।