पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
आत्मबोधः।


स्वयमंतर्बहिर्व्याप्य भासयन्नखिलं जगत् ।
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिंडवत् ॥ ६२ ॥
जगद्विलक्षण ब्रह्म ब्रह्मणोऽन्यन्न किंचन ।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ।
दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानंदमद्वयम् ।। ६४ ।।
सर्वग सच्चिदानंद ज्ञानचक्षुनिरीक्षते ।।
अज्ञानचक्षुर्नेक्षेत भारवंत भानुमधवत् ।। ६५ ॥
श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापितः ।
जीवः सर्वमलान्मुक्त' स्वर्णवद्द्योतते स्वयम् ।। ६६ ॥
हृदाकाशोदितो ह्यात्मा बोधभानुरतमोपहृत् ।
सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ।। ६७ ॥
दिन्देशकालाद्यनपेक्ष्य सर्वग
शीतादिह्रन्नित्यसुखं निरजनम् ।
यः स्वात्मतीर्थं भजते विनिष्क्रियः ।
स सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८ ॥

---

इति श्रीमत्परमहसपरिबाजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीशकरभगवतः कृतौ आत्मबोधः समाप्तः ॥