पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
right
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


सर्वात्मभावोऽप्यमुनैव सिध्ये-
 त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥
सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः ।
जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५ ॥
योऽहममेत्याद्यसदात्मगाहको
 ग्रन्थिर्लयं याति स वासनामयः ।
समाधिना नश्यति कर्मबन्धो
 ब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ।।
एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः ।
शुद्धात्मना मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥
तस्मात्त्वञ्चाप्यप्रमत्तः समाधी-
 न्कृत्वा ग्रन्थिं साधु निर्दाह्य युक्तः ।
नित्यं ब्रह्मानन्दपीयूषसिन्धौ
 मज्जन्क्रीडन्मोदमानो रमस्व || ९०८ ॥
निर्विकल्पसमाधिर्यो वृत्तिनैश्चल्यलक्षणा ।
तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ।।
अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९१०॥
ध्यानं समाधिरित्येव निगदन्ति मनीषिणः ।
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥
यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ।।
नियमो हि परानन्दो नियमात्क्रियते बुधैः ।
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिंतनम् ॥ ९१३ ॥
आसनं तद्विजानीयादितरत्सुखनाशनम् ।