पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


यथा तथैव सा वृत्तिब्रह्ममात्रतया स्थिता |
पृथड् न भाति ब्रह्मैवाद्वितीयमत्रभासते ॥ ८२५ ॥
ज्ञात्रादिकल्पनाभावान्मतोऽय निर्विकल्पकः ।
वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥
समाधिसुप्त्योर्ज्ञानं चाज्ञान सुक्यात्र नेष्यते ।
सविकल्पो निर्विकल्पः समाधिविमौ हृदि ॥ ८२७ ॥
मुमुक्षार्यत्नतः कार्यौ विपरीतनिवृत्तये ।
कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ।। ८२८ ॥
ज्ञानस्याप्रतिवद्धत्वं सदानंदश्च सिध्यति ।
दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ।।
सविकल्पस्तयोर्यत्तल्लक्षण वन्मि तन्छृणु ।
कामादिप्रत्ययैदृश्यैः ससर्गो यत्र दृश्यते ।। ८३० ॥
सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः ।
अहंममेदमित्यादिकामकोधादिवृत्तयः ।। ८३१ ॥
दृश्यन्ते येन सदृष्टा दृश्याः स्युरहमादयः।
कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ।। ८३२ ॥
साक्षिण स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः ।
कामादीनामह साक्षी दृश्यन्ते ते मया ततः ।। ८३३ ॥
इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् ।
दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥
नाह देहो नाप्यसुर्नाक्षवर्गों
 नाहकारो नो मनो नापि बुद्भिः ।
अंतस्तेषां चापि तद्विक्रियाणां
 साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥
वाचः साक्षी प्राणवृत्तेश्च साक्षी