पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


वेदान्तवाक्यानुगुणयुक्तिभिस्स्वनुचिंतनम् ।
मनन तच्छ्रुतार्थस्य साक्षात्करणकारणम् ॥ ८१३ ॥
विजातीयशरीरादिप्रत्ययत्यागपूर्वकम ।
सजातीयात्मवृत्तीना प्रवाहकरण यथा ॥
तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिप्यते ॥ ८१४ ॥
तावत्काल प्रयत्नेन कर्तव्य श्रवण सदा ।
प्रमाणसशयो यावत्स्वबुद्धेर्न निवर्तते ॥ ८१५ ॥
प्रमेयसशयो यावत्तावत्तु श्रुतियुक्तिभि ।
आत्मयाथार्थ्यनिश्चित्त्यै कर्तव्य मनन मुद्रः ॥ ८१६ ॥
विपरीतात्मधीर्यावन्न विनश्यति चेतसि ।
तावन्निरतर ध्यान कर्तव्य मोक्षमिच्छता ॥ ८१७ ॥
यावन्न तर्केण निरासितोऽपि दृश्यप्रपचस्वपरोक्षयोधात् ।
विलीयते तावदमुष्य भिक्षार्थ्यानादि सम्यक्करणीयमेव ॥ ८१८॥
सविकल्पो निर्विकल्प इति देवा निगद्यते ।
समाधि सविकल्पस्य लक्षण वच्मि तच्छृणु ॥ ८१९ ।।
ज्ञानाद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।
तदाकाराकारितया चित्तवृत्तरवस्थिति ॥ ८२० ।।
सद्भिः स एव विज्ञेय समाधिः सविकल्पकः ।
मृद एवावभानेऽपि मृण्मयाद्विपभानवत् ॥ ८२१ ।।
सन्मात्रवस्तुभानेऽपि त्रिपुटी माति सन्मयी ।
समाधिरत एवाय सविकल्प इतीर्यते ॥ ८२२ ॥
ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।
मनसो निर्विकल्पः स्यात्समावियोगसज्ञितः ॥ ८२३ ॥
जले निक्षिप्तलवण जलमात्रतया स्थितम् |
'पृथड् न भाति किं न्वभ एकमेवावभासते ॥ ८२४ ॥