पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
आत्मबोधः।


स सच्चिदादिधर्मत्व भेजे भ्रमरकीटवत् ॥ ४९ ।।
तीर्त्वा मोहार्णव हत्वा, रागद्वेषांदिराक्षसान् ।
योगी शांतिसमायुक्त आत्मा रामो विराजते ।। ५०॥
बाह्यानित्यसुखासक्ति हित्वात्मसुखनिर्वृतः ।
घटस्थदीपवच्छश्चदतरेव प्रकाशते ।। ५१ ॥
उपाधिस्थोऽपि तद्धर्म्यैरलिप्तो व्योमवन्मुनिः ।
सर्वविन्मूढवत्तिष्ठदसक्तो वायुवच्चरेत् ।। ५२ ।।
उपाधिविलयाद्विष्णौ निर्विशेष विशेन्मुनिः ।
जले जल वियद्व्योम्नि तेजरतेजसि वा यथा ॥ ५३॥
यल्लाभान्नापरो लाभो यत्सुखान्नापर सुखम् ।
यज्ज्ञानान्नापर ज्ञान तद्ब्रह्मेत्यवधारयेत् ।। ५४ ॥
यदृष्ट्वा नापर दृश्य यद्भूत्वा न पुनर्भवः ।
यज्ज्ञात्वा नापर ज्ञेय तद्ब्रह्मेत्यवधारयेत् ॥ ५५ ।।
तिर्यगूर्ध्वमध पूर्णं सच्चिदानदमद्वयम् ।
अनत नित्यमेक यत्तद्ब्रह्मेत्यवधारयेत् ।। ५६ ॥
अनद्वयावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययम् ।
अखडानदमेक यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५७ ।।
अखंडानदरूपस्य तस्यानदलवाश्रिताः ।
ब्रह्माद्यास्तारतम्येन भवत्यानदिनोऽखिलाः ।। ५८।।
तद्युक्तमखिल वस्तु व्यवहारश्चिदन्वितः ।
तस्मात्सर्वगत ब्रह्म क्षीरे सर्पिरिवाखिले ।। ५९ ॥
अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् ।
अरूपगुणवर्णाख्य तद्ब्रह्मेत्यवधारयेत् ॥ ६० ॥
यद्भासा भासतेऽर्कादि भास्यैर्यत्तु न भास्यते ।
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ।। ६१ ।।