पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


अमुचानः स्वात्मन्यनुपमसुखे ब्रह्माणि परे
 रमस्व प्रारब्ध क्षपय सुखवृत्त्या त्वमनया ।। ७९१ ।।
ब्रह्मानदरसास्वादतत्परेणैव चेतसा ।
समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥
अखडाख्या वृत्तिरेषा वाक्यार्थश्रृतिमात्रतः ।
श्रोतुः सजायते किं वा क्रियातरमपेक्षते ।। ७९३ ॥
समाधिः कः कतिविधस्तत्सिद्धे किमु साधनम् ।
समाधेरतरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥
मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः ।
तेषा प्रज्ञानुसारेणाखडा वृत्तिरुदेष्यते ॥ ७९५ ॥
श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वर कर्मणा
सतोष्यार्जिततत्प्रसादमहिमा जन्मातरेष्वेव यः ।
नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै-
र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ ७९६ ॥
अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्त्रा
वाक्याथै बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य ।
नित्यानदाद्वितीय निरुपमममल यत्पर तत्त्वमेक
तौवाहमस्मीत्युदयति परमाखडताकारवृत्तिः ॥ ७९७ ।।
अखडाकारवृत्तिः सा चिदाभामसमन्विता ।
आत्माभिन्न पर ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ।।
बाधते तद्गताज्ञान यदावरणलक्षणम् ।
अखडाकारया वृत्त्या त्वज्ञाने बाधिते सति ।। ७९९ ॥
तत्कार्यं सकल तेन सम भवति बाधितम् ।