पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


 यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥
शरीरतद्योगतदीयधर्माद्यारोपणं भ्रान्तिवशात्त्वयीदम् ।
न वस्तुतः किंचिदतस्त्वजस्त्वं मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥७८१॥
 यद्यपृष्टं भ्रान्तिमत्या स्वदृष्ट्या
  तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव ।
 त्वत्तो नान्यद्वस्तु किंचित्तु लोके
  कस्माद्भीतिस्ते भवेदद्वयरय ॥ ७८२ ॥
पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् |
भय स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥
तस्मात्त्वमभयं नित्य केवलानंदलक्षणम् ।
निष्कलं निष्क्रिय शांत ब्रह्मैवासि सदाऽद्वयम् ॥ ७८४ ॥
ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्न ज्ञानमखंडम् |
ज्ञेयाज्ञेयत्वादिविमुक्त शुद्धं बुद्ध तत्त्वमसि त्वम् || ७८५ ।।
अतःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तदृशिमात्रम् ।
सत्तामात्रं समरसमेक शुद्ध बुद्धं तत्त्वमसि त्वम् ॥ ७८६ ॥
सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूत यत् ।
सत्य शाश्वतमेकमनत शुद्ध बुद्धं तत्त्वमसि त्वम् ।। ७८७ ॥
नित्यानदाखंडैकरसं निष्कलमक्रियमस्तविकारम् ।
प्रत्यगभिन्नं परमव्यक्त शुद्धं बुद्ध तत्त्वमसि त्वम् ॥ ७८८ ॥
त्वं प्रत्यस्ताशेपविशेष व्योमेवांतर्बहिरपि पूर्णम् ।
ब्रह्मानंद परमद्वैतं शुद्धं बुद्ध तत्त्वमसि त्वम् ॥ ७८९ ॥
ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् |
इत्येवाखडया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥
अखंडामेवैतां घटितपरमानंदलहरीं
 परिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् ।